भारते ये केऽपि विद्वांसः बभूवुः तेषां सर्वेषां मतमिदं यत् सर्वस्य ज्ञानस्य आधारभूताः वेदाः । अतः व्याकरणशास्त्रस्याप्यादिमूलं वेदाः। एव सन्ति नास्ति कश्चन सन्देहः । ” वेदस्य मुखं व्याकरणं स्मृतम्” इति वचनेन वेदस्य मुखं व्याकरणं प्रतिपादितम् । व्याकरणं नाम व्याक्रियन्तेऽसाधुशब्देभ्यो विविच्य साधुशब्दाः पृथक् क्रियन्तेऽनेन तत् व्याकरणम् । प्रकृतिप्रत्ययविभागेन साधुशब्दविवेचकं शास्त्रं व्याकरणम्। असाधुशब्दावधिकं साधुशब्दकर्मकं पृथक् कृतिप्रयोजकं व्याकरणम् एवं रीत्यापि लक्षणमेतस्य विहितं दृश्यते । महाभाष्यकार: पतञ्जलिः व्याकरणं शब्दानुशासनशब्देन व्यवहरति ।
व्याकरणपरम्परायां वैयाकरणै: ग्रन्थप्रणयनं त्रिविधं कृतं दृश्यते । प्रक्रियाग्रन्थरूपम्, आर्थिकग्रन्थरूपम् परिष्कारूपञ्च। शब्दानां निष्पत्तिविषये विचारो भवति प्रक्रियाग्रन्थेषु, ते च सन्ति प्रक्रियाकौमुदी, सिद्धान्तकौमुदी’ इत्याद्यो ग्रन्थाः सुप्रसिद्धा एव । आर्थिकग्रन्थेषु ,दार्शनिकविषयाणां प्रतिपादनं क्रियते । यथा वैयाकरणभूषणसार, वैयाकरणलघूमञ्जूषा, वैयाकरणसिद्धान्त मञ्जूषा, परमलघुमञ्जूषेत्यादयो ग्रन्थाः सन्ति । परिष्कारग्रन्थाश्च सन्ति प्रौढमनोरमा, लघुशदेन्दुशेखरः, वृहत्शब्देन्दुशेखरादयो ग्रन्थाः।
व्याकरणस्य वैशिष्ट्यं प्रतिपादयन्तो वैयाकरणा: वाक्यपदीयकारा: वदन्ति न केवलं व्याकरणं प्रक्रियामात्रसाधकम् एव किन्तु मोक्षसाधकमपि वर्तते। यथा- तद् द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम् ।
पवित्रं सर्वविद्यानाम् अधिविद्यं प्रकाशते ।।
व्याकरणमिदं वाचो मलमपाकुरुते, अत एव शुद्धशब्दस्य प्रयोगस्य परमोपाय:, अपवर्गस्य द्वारम् सर्वविद्यानां पवित्रम्, अत एवेदं सर्वासु विद्यासु प्रकाशते यथा शरीरस्थानां दोषाणामपाकरणाय औषधामाश्यकं भवति। तथैव वाचो दोषमपाकर्तु` व्याकरणमावश्यकं विद्यते । व्याकरणं हि मोक्षसाधनमास्ते । यतो हि व्याकरणेन साधुशब्दानां ज्ञानं जायते, तेषां ज्ञानात् साधुशब्दप्रयोगः, तेन पुण्यम्, पुण्येण जातपूतान्तःकरणो जनः शब्द ब्रह्मणः सायुज्यं लभते । व्याकरणस्य नितान्तमेवोपादेयतां श्रेष्ठताञ्च दृष्ट्वैव बुधैरभिहितं यत् –
यद्यपि बहुनाधीषे तथापि पठ पुत्र व्याकरणम्।
स्वजन: श्वजनो माभूत्सकलं शकलं सकृत्छकृत् ॥
यद्यपि बहुभिर्वैयाकरणैर्व्याकरणानि प्रणितानि । तेषु विद्वत्तमेषु-इन्द्र:, चन्द्रः काशकृत्स्नः, आपिशलिः, शाकटायनः पाणिनिः अमरः, जैनेन्द्र:, एतेऽष्टौ सुप्रसिद्धाः सन्ति । व्याकरणान्यधिकृत्यैकं श्लोकं प्रसिद्धमस्ति –
ऐन्द्रं चान्द्रं काशकृत्स्नं कौमारं शाकटायनम् ।
सारस्वतं चापिशलं शाकलं पाणिनीयकम् ।।
अद्यत्वे सर्वत्र प्रामुख्येन पाणिनिकर्तृकं व्याकरणमेव प्रचलितं वर्तते। इदं हि व्याकरणं नितरामेव सुसमृद्धं सुसम्पन्नं सुललितं, सर्वाङ्गीणं, व्यापकञ्च विद्यते । पाणिनितः प्रागेवं विधं व्याकरणं नासीत् ।
पाणिनीयस्य व्याकरणस्य महत्वपूर्णमङ्गं कात्यायनस्य वार्तिकपाठोऽस्ति । अनेन विना वस्तुतः पाणिनीयं व्याकरणमपूर्णिमेव प्रतिभाति। पतञ्जलिः कात्यायनीयं वार्तिकपाठमादायैव नैजं महाभाष्यमरचत् । पतंजलिभगवता एषा हि महाभाष्यरचना पाणिनीय व्याकरणं सरलया सरसया च रीत्या व्याचष्टे । सकलेऽपि संस्कृतवाङ्मये महाभाष्यं वस्तुतोऽद्वितीयोऽयम् ग्रन्थः ।
© 2023 All Rights Reserved. Developed By TechStreet Solutions