असारे संसारे विषयवैतृष्णया खिन्नमनसेतस्ततः भ्रमन्तः आपामरजनसाधारणाः स्वोपकारार्थं विविधोपायाः कुर्वन्तः नानामार्गेष्वनुसरन्तोऽपि स्वकल्याणमदृष्ट्वा बहुधा समीक्ष्य ऋषीणाम्मार्गदर्शनेन ज्ञायते यत् स्वात्यन्तिकदुःखनिवृत्त्यर्थं परमानन्दप्राप्त्यर्थञ्च वेदमेवाकरम्। वेदेऽपि एकलक्षमन्त्राः सन्ति। कलिकालग्रस्ताल्पमेधस्मानवानां समेषामखिलवेदार्थग्रहणेऽसामर्थ्यं दृष्ट्वैव मन्त्रद्रष्टारः ऋषयः काण्डत्रयात्मकवेदस्य कर्मकाण्डमुपासनाकाण्डमुपेक्ष्योपनिषत्स्वरूप ज्ञानकाण्डात्मकं दर्शनानां मूर्धन्यं वेदान्तदर्शनमेव विस्तरेण व्यवस्थापितमस्ति। वेदान्तदर्शनेऽपि श्रुतिस्मृतियुक्तिसिद्धविशिष्टाद्वैतदर्शननां विशेषतः प्रचारप्रसारार्थम्प्रमुखस्थानं श्रीरङ्गलक्ष्मी-आदर्श-संस्कृत-महाविद्यालयोऽस्ति। तस्य स्थापना श्रीधाम-वृन्दवनस्थ श्रीरङ्गमन्दिरे कृताऽस्ति। महाविद्यालयेऽस्मिन् सम्पूर्णानन्द- संस्कृत-विश्वविद्यालय-वाराणसीतः वेदान्त-विषयस्य स्थायी मान्यता प्राप्तास्ति। अर्थात् “ब्रह्मसूत्र-उपनिषद-श्रीमद्भगवद्गीता“ इत्येतेषां त्रयाणां प्रस्थानत्रयी शब्देन ख्यातिः विद्यते। प्रस्थानत्रय्योपरि प्रायोऽष्टावचार्याणां स्वस्वानुभवानुसारेण भाष्यानि वर्तन्ते। अनेनैव कारणेन वेदान्तस्याष्टौ विभागा अभवन्। यथा-शांकरवेदान्त- रामानुजवेदान्त- माध्ववेदान्त- निम्बार्कवेदान्त- गौडियवेदान्त- रामानन्दवेदान्त- बल्लभवेदान्त- शक्तिविशिष्टाद्वैतेति। महाविद्यालयेऽस्मिन् यथा समयमवाप्य प्रायः समेषां वेदान्तानान्निर्विघ्ननैरन्तरसत्कारपूर्वकमध्ययनमध्यापनम् भवति। ऐतेषां वेदान्तानाम् मध्ये यं कमपि एकं स्वस्वमतानुसारेण वेदान्तविषयमधिकृत्य विद्यार्थिनः परीक्षार्थं जिज्ञासवः ब्रह्मविज्ञानार्थञ्च नैरन्तर्यमध्ययनं श्रवणं मननं निदिध्यासनं कुर्वन्तः सन्ति । अननैवाचार्याणां महाविद्यालयस्य (संस्कृतविद्यापीठस्य) स्थापनायाः प्रयोजनमिति चरितार्थं भवति ।
© 2023 All Rights Reserved. Developed By TechStreet Solutions