शब्दार्थयोः सहभावः साहित्यमित्युक्ते, लोकहितकरं कविकर्म साहित्यपदेनोच्यते । “डुधाञ्” धारणपोषणयोरिति धातोः ’क्त’ प्रत्यये विहिते ’दधातेर्हि’ इति ’हि’ आदेशे कृते हितशब्दसिद्धिः। ततश्च हितेन सह सहितम्, तस्य भावः साहित्यमिति व्युत्पत्तिलभ्योऽपि साहित्यपदार्थो जगद्धाराणपोषणरूपं हितमेव निर्वक्ति। व्यासवाल्मीकिकालिदासप्रभृति कवीनां वचांसि कियादिव न लोकहितं साधयन्ति । तेषां भगवदंशभूतानां महाकवीनां मृद्वीकामध्यनिर्यन्मधुररसझरीमाधुरीभाग्यभाजां वाचां रसं पायं पायं श्रावं श्रावं भूयसो दुरितदुःखदग्धा जना अनायासमेव स्वकल्याणं कृतवन्त इति नास्त्यगोचरं साहित्य- सेवापराणां विदुषाम् । न केवलं लोकहितं साधयत्यपितु साहित्यं लोकवृत्तदर्पणभूतमप्यस्ति। एकस्मिन् देशे स्थितोपि जनः साहित्यस्वाध्यायपरोऽखिलमपि विश्ववृत्तं ज्ञातुं प्रभवति । तथा च रसमयत्वेन साहित्यस्य, सहजमेव तत्र स्वाध्यायप्रवृत्तिर्जायते । अन्येषु शास्त्रेषु बुद्धिः सप्रयासमेव प्रवर्तते । साहित्ये तु सहजैव प्रवृत्तिः। अतः साहित्यं लोकाकर्षकम्, हितकरञ्चतुर्विधपुरुषार्थसाधकमिति सर्वदा सर्वथा सेवनीयम्।
© 2023 All Rights Reserved. Developed By TechStreet Solutions