प्रमाणैरर्थपरीक्षणं न्यायः । दर्शनं द्विविधम् आस्तिकनास्तिकभेदात् । आस्तिकं दर्शनं षड्विधम्, न्यायवैशेषिकसांख्ययोगमीमांसावेदान्तभेदात् । नास्तिक दर्शन त्रिविधं चार्वाकजैनबौद्धभेदात् । बौद्धदर्शनं चतुर्विधं वैभाषिकसौत्रान्तिकमाध्यमिकयोगाचारभेदात् । अनया रीत्या दर्शनं द्वादशविधं भवति । तेषां दर्शनानां मध्ये न्यायदर्शनमपि विद्यते, अस्मिन् दर्शने प्रमाणैरर्थपरीक्षणं क्रियते । न्यायमते प्रमाणानि चत्वारि भवन्ति प्रत्यक्ष-अनुमान- उपमान-शब्द-भेदात् । प्रत्यक्षप्रमाणेन घटपटादीनां प्रत्यक्षं क्रियते । अनुमानप्रमाणेन अनुमितिः क्रियते । उपमानप्रमाणेनोपमितिः क्रियते । शब्दप्रमाणेन शाब्दबोधः क्रियते । अनेन प्रकारेण चतुर्भिः प्रमाणैरर्थ परीक्षणं क्रियते, अयमेव न्यायः ।
© 2023 All Rights Reserved. Developed By TechStreet Solutions