उत्तरभारते श्रुतिस्मृतिसिद्धविशिष्टाद्वैतदर्शनस्य प्रचारप्रसारस्य प्रमुखं केन्द्रं श्रीधाम्नि वृन्दावने स्थितं श्रीरंगमन्दिरं वर्तते। इदं दिव्यदेश इति नाम्नापि प्रसिद्धम्। । अस्य दिव्यदेशस्य स्थापना परमपूज्यैरनन्तश्रीविभूषितैः श्रीरंगदेशिकस्वामिवर्यैः (गोवर्धनपीठाधीशैः) चतुरधिक-एकोनविंशतिशततमे वर्षे (संवत्१९०४) कृता। तेषां विद्वत्प्रवरशिष्येष्वन्यतमाः श्रीसुदर्शनाचार्य-श्रीलक्ष्मणाचार्य-श्रीगोविन्ददासप्रभृतयः महाराजं श्रीस्वामिनं निवेदितवन्तो यत् श्रीगुरुमातुः श्रीलक्ष्म्यम्बायाः स्मरणं सततं भवेत् सुधीजनानाञ्च श्रुतिदुग्धामृतं सदा प्रवहेत्। एतदर्थं संस्कृतेः संरक्षणाय संस्कृतस्य विकासाय च एकस्य संस्कृतमहाविद्यालयस्य स्थापना स्यादिति, तेषां निवेदनं श्रूत्वा स्वामिवर्याः सम्मतिं दत्तवन्तः, स्वामिनोऽनुमतिं लब्ध्वानन्तरं षडुत्तरैकोनविंशतिशततमे वर्षे (विक्रमसंवत् १९०६) श्रीरंगलक्ष्म्यादर्शसंस्कृतमहाविद्यालयस्य स्थापना जाता। महाविद्यालयोऽयं दि.0१.0७.१९७८तः भारतसर्वकारस्यादर्शायोनान्तर्गतगृहीतोऽस्ति । इतः पूर्वं महाविद्यालयोऽयं उत्तरप्रदेशशासनस्यानुदानेन संचालित आसीत् । सर्वप्रथमं राजकीयसंस्कृतकॉलेजवाराणस्याः कक्षाः तदनन्तरं वाराणसीसंस्कृतविश्वविद्यालयवाराणस्याः कक्षाः तत्पश्चात् अद्यतने सम्पूर्णानन्दसंस्कृतविश्वविद्यालयवाराणसी द्वारा शास्त्र्याचार्यस्य कक्षाः सञ्चचालिताः सन्ति ।
एवमयं महाविद्यालयः १७४ वर्षेभ्यः सततं संस्कृतस्य संस्कृतेः दर्शनस्य च प्रचारप्रसाराय बद्धपरिकरो वर्तते। अनेकविशिष्टा विद्वांसः महाविद्यालयस्य प्राचार्यपदे समासीनो भूत्वा महाविद्यालयस्य विकासायैव कार्यं कृतवन्तः। श्रीसुदर्शनाचार्यशास्त्रिमहाराजाः, श्रीगरुडध्वजाचार्या:, अमोलकरामजी शास्त्रिण: श्री सीतारामाचार्याः, श्रीरामलखनपाण्डेयाः, श्रीरामादर्शपाण्डेयाः, ( एतेषां महानुभावानां कार्यकाल एव भारतसर्वकारः महाविद्यालयम्, आदर्शयोजनायां गृहीतवान् आसीत् ) डॉ मुरारिलालचतुर्वेदी महोदयाः, डॉ रामकृपालत्रिपाठिप्रभृतयः पदेऽस्मिन् सुशोभितवन्तः एवं कार्यवाहकरूपेणापि प्राचार्यपदे अधोलिखिता आचार्या – श्रीरासविहारीलालगोस्वामिनः श्रीसदाशिवशास्त्रिणः, श्रीहिरालालशास्त्रिणः, डॉ प्राणगोपालाचार्यशास्त्रिणः, आचार्यरामसुदर्शनमिश्रवर्या आसन। वर्तमाने कार्यवाहकत्वेन डॉ अनिलानन्दमहोदयाः प्राचार्यस्य कार्यं सम्पादयन्तः सन्ति ।
“श्रीरंगमन्दिरराट्रष्टबोर्ड” इत्यस्य वर्तमानाध्यक्षाणाम्- उभयवेदान्तप्रवर्तकानाम् अनन्तश्रीविभूषितानाम् स्वामिवर्याणाम् श्रीगोवर्धनरंगाचार्यमहाराजानां गोवर्धनपीठाधीश्वराणां वरदहस्तयोः छत्रच्छायायां श्रीगोदारंगमन्नारभगवत्कृपया वर्तमानसमयेऽयं महाविद्यालयः स्वकीयं लक्ष्यं प्रति नित्यम् प्रयतमान: वर्तते।
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयद्वारा न्याय-व्याकरण-वेदान्त-साहित्यविषयाणां स्थायी मान्यता संप्राप्ता वर्तते । अत एतेषां चतुर्णाम् विषयाणामध्ययनं महाविद्यालयेऽस्मिन् भवति – इति शम्।